संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Friday 24 July 2015

चिन्तयामो वयम् पाठभागात्



वाचयतु  पठतु 

माता महिषीं दोग्धि l 
पाचक: गोधूमान् पायसं पचति l 
पिता पुत्रं धर्मं ब्रूते l 
मातुल:भागिनेयं नगरं नयति l 
तक्षक:पीढं ग्रामं वहति l 
देवा : अमृतं क्षीरनिधिं अमथ्नन् l 
माता दधि नवनीतं मथ्नाति l 

मुख्य्कर्म                            
 पय:
पायसं 
धर्मं
 भागिनेयं  
पीढं 
अमृतं 
नवनीतं   
 गौणकर्म
महिषीं 
गोधूमान् 
पुत्रं 
नगरं 
ग्रामं 
क्षीरनिधिं 
दधि 

परस्मैपद रूपाणि 
आसीत् 
अकारयत् 
व्यनाशयत् 
अतिष्ठत् 
अक्रीणात 
अकरोत् 
प्रायच्छत् 
प्राविशत् 
अपृच्छत् 

आत्मनेपद रूपाणि  

असूत 
प्रातिष्ठत 
अयाचत 
अकुरुत 


हरति  - ह्रीयते 

कर्षति - कृष्यते 
वहति -उह्यते 

बहिर्शब्दयोगे पञ्चमी 

कूप:-कूपात् 
नालिका -नालिकाया:
गृहं -गृहात् 
स्थाली -स्थाल्या:
उद्यानं -उद्यानात् 


अव्ययानि --------------अव्ययानां प्रयोग:


नम :         --------------आचार्याय नम :

स्वस्ति     ---------------प्रजाभ्य: स्वस्ति 
किमर्थं      --------------शिशु किमर्थं रोदिति इति माता एव जानाति 
अधिकृत्य --------------रघूनाम् वंशं अधिकृत्य कृतं काव्यं रघुवशं 

ट्रीसा एस् .एच् 




















  

Saturday 30 May 2015

एहि ! मिलामो वयम्

               
पुनरपि एको अद्ययनवर्ष: समारभ्यते l छात्रा :सर्वे नूतन पठनोपकरणानि समाहृत्य विद्यालयं गन्तुं उत्सुका : भवन्ति l नूतनपठनरीत्या छात्रान् आकर्षयितुं सर्वकारोऽपि नुतनकार्यक्रमा: आयोजिता:l महत् सन्तोषदायकमिदं अवसरं सम्यक् विनियोक्तुं सर्वेभ्यो अध्यापकसुह्रुद्भ्य :सुस्वागतम् l 

ट्रीसा .एस् .एच् 

Thursday 14 May 2015

समस्यापूरणम्



(त्रिश्शूर संस्कृताध्यापकपरिशीलने क्रियमाणात्  समस्यापूरणनिर्माणात् उद्धृतानि इमानि .........)

विषय:-  'वने वनं नास्ति वदन्ति राजम् '


1.  सज्ज रथं भो ! मृगयार्थं वने 
आदिदेश सेवकान् कुतूहलम् l 
संकेतो आतङ्कवादिनाम् 
वने वनं नास्ति वदन्ति राजम् l l 
(ट्रीसा ,एस् .एच् त्रिश्शूर् )

2. सुसंमिलिताश्च सर्वे जन्तव:
वनमहोत्सवे सुदिने काले l 
भयग्रस्ता:अनन्यगतिकास्ते 
वने वनं नास्ति वदन्ति राजम् l l 
(विनोद्  वी . पी ,सी ए एच् एस् एस् पालक्काट् )

3. पानाय स्नानाय च खादनाय 
अभ्यागच्छति वनगजा:देशे l 
अन्विष्यतां कारणं भो !सेवका:-
वने वने नास्ति वदन्ति राजम् ll 
 (ट्रीसा ,एस् .एच् त्रिश्शूर् )


4.मृगद्विजसंकुलं पुष्पफल -
शोभितं ,निर्मलनिर्झरीयुक्तम्  l 
वनमन्विष्य भ्रमाम्यहं किन्तु 
वने वनं नास्ति वदन्ति राजं l l 
(सरिता पी के ,सी जे एम् एच् एस् एस् वरन्दरप्पिल्ली )


विषय:-'कार्याकार्यं विचिन्तयेत् '

1. उक्तं वाचं , क्षिप्तं दण्डं
नैव हि प्रत्यागछति l 
अतयेवोच्यते  बुध्दः :
कार्याकार्यं विचिन्तयेत् l l 
 (ट्रीसा ,एस् .एच् त्रिश्शूर् )

2. प्रकम्पमानो संसार:
शीर्यमाणं च शरीरं 
गच्छत्यायुस्तस्मात् बुध्दः 
कार्याकार्यं विचिन्तयेत् l l 
(विनोद्  वी . पी ,सी ए एच् एस् एस् पालक्काट् )

3.सन्ति कर्माण्यनेकानि  
लोके सर्वस्य वै परं l 
देशे काले च पात्रे च 
कार्याकार्यं विचिन्तयेत् l l 
(सुजा हरिदास् )

4.समस्यापूरणं कृत्वा 
गृहकर्माणि विस्मृतां l 
स्वश्रूरेव बोधयेन्मां 
कार्याकार्यं विचिन्तयेत् l l 
(प्रिया ,तृक्कूर् )


विषय:- 'आ  हन्त ! लोको मुमुते धनेन '

आ   हन्त ! मन्ये धनमेव सत्यं 
आ   हन्त !  मन्ये रमते धनेन l 
आ   हन्त !  नष्टं मरणे नरस्य 
आ   हन्त ! लोको मुमुदे  धनेन l l 
(प्रसाद् सी आर् ,माता एच्  एस्  मन्नंपेट्ट )

2. नीते ! भृशं त्वयि खिद्यामि सोऽहं 
यो विष्णुगुप्तसरणीं प्रत्याप्तुकाम:l 
सरितेति माणीति ते जयखानमुख्या:
आ हन्त ! लोको मुमुदे  धनेन l l 
(सुजा हरिदास् )

3. निरन्तरातिष्टसुखप्रवाहो 
नोत्पद्यते आशु ज्ञानं विनैव l 
तथाप्याश्चर्यमयं भवत्येतत् 
आ हन्त ! लोको मुमुदे  धनेन l l 
(विनोद्  वी . पी ,सी ए एच् एस् एस् पालक्काट् )

4. कस्त्वम् निर्णेतुं आयुषं भुवि ?
पश्य मूठ ! प्रकृतिविकृतय: l 
ततोऽपि वर्धते धनलिप्सा ?
आ हन्त ! लोको मुमुदे  धनेन l l 
(ट्रीसा ,एस् . एच् त्रिश्शूर् )


 विषय:-     वर्षाकाल: समागत:l 


1.वैशाखो न हि निर्गत:

शाला नैवोद्घाटित:l 
न जाने तरसा कुत:
वर्षाकाल: समागत:l l 
(सुजा हरिदास् )

2.व्यजनं  स्थगितं  अम्बा !
मशकदंशोऽभवच्च l 
किमहं करोमि पुत्र:?
वर्षाकाल: समागत:l l  
(ट्रीसा ,एस् . एच् त्रिश्शूर् )

3.विद्वद्भि:मण्डितां सद्भि:
शास्त्रीयार्थ विमर्शिकाम् l 
चिन्तयेऽहं सभां नत्वा 
वर्षाकाल: समागत:l l 
(विनोद्  वी . पी ,सी ए एच् एस् एस् पालक्काट् )


Wednesday 15 April 2015

विषु

विषु आगतं यदा तदैव गतं च मित्रक !
कैरलीवर्षारम्भं सूचयन् घोषयन् मुदा l
प्रफुल्लकर्णिर्कारकुसुमै:सुवर्णायते
अम्बा केरलाख्या प्रतिश्रुतवधूरिव भो :!l l

मिलामो वयं सानन्तं भेदं विना सुहृद:!
' संस्कृतोपासनाया: 'अङ्गतले सकौतुकं l  
नवनव रचनाबहुलै:भाषापोषिभि :
करिष्यामो  वयं विषु महोत्सवगीतानि l l 
ट्रीसा .एस् .एच् 

Monday 9 March 2015

वनितादिनम्



अतीतमेकं  वनितादिनं बहु घोषणै :
पुलकितं  स्त्रीसमूहमखिलं  घोषणै :l 
स्त्री एव शक्तिरिति तु  काव्यभाष्यं 
उद्घोषितं च  दिनाचरणे बहुभिर्मुदा l l 

किन्त्वपि श्रुतमस्माभि :परेद्यु:
हन्त ! बलात्कारवार्ता पत्रमाध्यमेषु l 
भो!पैशाचिकते !लज्जा नास्ति तुभ्यं ?
अबलान् प्रति कर्तुं मदौद्धत्यं ?

जाग जाग अविलंबं सगौरवं 
कुरु प्रतिकरणं सर्वशक्त्या प्रतिपदं l 
स्मर्तव्यम् धैर्यं कुलवधूनाम् भवद्भि:
गन्दव्यं पथं तेषां अनुपदं सधैर्यं l l 
ट्रीसा ,एस् ,एच् 

Thursday 22 January 2015

ओथल्ल:- चम्पु


((आन्गलेय सहित्यकारस्य षेक्स्फीयर महाभागस्य 'ओथल्लो ' इति कृतिं  अवलम्ब्य  कृतं एकं चम्पुप्रभाषणं  )
(रचना - ट्रीसा .पी .ए , एस् .एच् .सी .जी .एच् .एस् .थ्रिस्सूर् )(संस्थानतले कलोल्सवे बहुवारं सम्मानितम् एतत् चम्पु  l  रचना -2011 तमे वर्षे ))

नम : सभायै ,
      भो भो कला सहृदया :, मम कथा 'ओथल्ल:'l भो भो तत्र पश्यतु ! वेनीस् नगरं कमपि आघोषाय सज्जा भवति l नगरवीथय:अत्यन्तं रमणीयतां भजते l सर्वत्र उत्सवप्रतीतय : च l
पश्य -          ' दुन्दुभिघोष:प्रचलन्ति 
                    मङ्गलनिनद : प्रसरन्ति l 
                    सैनिकगणमिह आयान्ति 
                        सर्वे तोषं कलयन्ति l l '
 भो ! यं कमपि विञ्जापनमिव श्रूयते -(श्रद्धां दत्वा )"आफ़्रिक्का देशात् आगत:मूर् वंशीय:, वीरयोद्धा ,सर्वादरणीय: सौशील्यवान्, औदार्यवान्  वेनीस नगरस्य सेनानी ओथल्ल: समागच्छति l जयतु जयतु नितरां " इति l
तत्र राज्य सभायां पश्यतु ! तत्र वेनीस राष्ट्रसभाङ्ग :ब्रबान्सिय:,तस्य पुत्री डस्तिमोणा ,वीरयोद्धा ओथल्ल: च तिष्ठन्ति l   ब्रबान्सिय : ओथल्लम् स्वागतम् वदति ; "त्वम् चिरञ्जीवीं भव " इति आशंसां च  करति l ओथल्ल:शिर:नमित्वा कृतज्ञताम्  वदति l ब्रबान्सिय:विज्ञापयति यत् -'ओथल्ल्:! वीरसेनानी ! तुभ्यं पारितोषिकत्वेन अस्य नगरसमीपवर्तिन: सैप्रस् द्वीपस्य अधिकारपदवीं च दास्यामि l स्वीकरोतु इयं अधिकारपत्रं "(अधिकारपत्रं ददाति ,किरीटं च धारयति )l
                   ' दुन्दुभिघोष:प्रचलन्ति 
                    मङ्गलनिनद : प्रसरन्ति l 
                    सैनिकगणमिह आयान्ति 
                        सर्वे तोषं कलयन्ति l l '
"ईश्वरस्य नाम्ना अहं प्रतिज्ञां करोमि यत् मम प्रयत्ना:सर्वे अस्य राज्यस्य प्रगत्यर्थं करिष्यामि l इदं सत्यं !सत्यं !" इति ओथल्लस्य सत्यप्रतिज्ञानन्तरं सर्वे गता:l किन्तु ....एका सा...... तत्र ...ओथल्लम् एव वीक्ष्य प्रतिमासमं तिष्ठन्ति l सा ....का ?...........सयेव .........
                                                             '  सर्व मङ्गलरूपा पवित्रा 
     विश्वसुन्दरी डस्तिमोणा l 
सर्वेषामपि मनोहारिणी 
         वेनीस् नगरस्य स्वीयपुत्री 'l l
ओथल्लमपि सर्वं विस्मृत्वातस्या: सौन्दर्यं नयनैर्पिबन् अद्भुतस्तब्ध: यान्त्रीकमिव तस्या: समीपं गत्वा उक्तवान् -"भवती का ? भवत्या: सान्निद्यमत्र ....? हे सुन्दरी ! यं किमपि वदन् मम जिज्ञासां श्याम्यतु "इति l 
 डस्तिमोणा स्वयम् परिचायनं कृत्वा प्रत्युत्तरयति -"अयोमय सदृशं भवत: शरीरं शारीरं च मां हठात् आकर्षयत् l कर्णाकर्णिकया श्रुता: वीरकथा: सत्यं इति जाने l भवान् न केवलं मम पितु:ममापि हृदयचोर:भवसि" इति  l तयोर्मिथ:जातेन परस्परानुरागेण आचारानुष्ठानानि विलङ्घ्य गान्धर्वविधिना विवाहितौ तौ तत:गतवन्तौ l 
 समये गते एतत् वृत्तान्तं ओथल्लस्य अनुचरेषु अरण्याग्निरिव प्रचारयत् l चोरस्स् निहिता कुञ्चिका !l 
जन्मना दुष्टमूर्ति :इयागु:अमूम् अवसरम विनियोक्तुं निश्चिकाय l स: मित्रं कासियं अवदत् -"वैदेशिकस्य ओथल्लस्य ईदृशं पुरोगतिं सोढुम् नाहं मूर्ख :l  अहं किं करोमि इति पश्यतु " इति l बहुवारं कासियेन निवारितोऽपि स:इयागु: राष्ट्र्सभाङ्गाय सर्वं न्यवेदयन् l 
"किं स: दुष्ट: कुत्र ?..............
                     'आनय सभायां बन्धित्वा वञ्चितं  l 
                      दण्ड्यामहं वधशिक्षया निर्घृतं अविवेकिनं 'l l 
इति आक्रोशयन् ब्रबान्सिय: अस्वस्थो अभवत् l किञ्चित् समयानन्तरं बन्धित: ओथल्ल: भटै : आनीतवान् l 
नम्रशिर: ओथल्ल: वक्तुमारभत -"हे प्रभो ! कृपया मां श्रुणोतु ; तव पुत्र्या साकं मम अनुरागं तत: यावज्जीवं 
अनुष्टेयं सुखजीवनं च निराकर्तुं नाहं भीरु:l तथापि भवत: अशीर्वचनानि मह्यमनिवार्यं l कृपया स्वीकरोतु ममाञ्जलि :" इति l "हे वीर:! तव धीरतायां आकृष्टोहं l त्वमेव मम पुत्र्या: अनुयोज्य: l मङ्गलानि भवन्तु ! " इति l 
एतदन्तरे' सैप्रस् ' देशे युद्धकाहलम् मुखरितम् l ओथल्ल: प्रियपत्न्या: संरक्षणं इयागो: पत्न्यां 'एमिल्ल्यां '
दत्वा कासियेन सह युद्ध भूमिम् गतवान् l भर्तारं विजयं आशंसयन्ती पतिव्रता डस्तिमोणा सुहृदा साकं वासं आरभत -
                    'जगदीश्वर !जगदीश्वर ! पालय पालय पतिं   नित्यं l 
                     युद्धं जीत्वा विजयी भूत्वा आनय आनय पतिं श्रेष्ठं 'l l 

इति प्रार्थनामन्त्रै :दिनानि अतीतानि l अचिरेणैव विजयश्रीलालित:ओथल्ल:द्वीप संरक्षणे कासियं नियुज्य पत्नीम् द्रष्टुं समागतवान् l तदन्तरे जाते कलहे कासियस्य भागभागित्वम् ज्ञातवान् ओथल्ल:तं द्वीप 
संरक्षणाधिकारात् भ्रंशयित्वा तत्स्थाने इयागुं न्ययुक्तवान् l अधिकारभ्रष्ट: कासिय:डस्तिमोणां शरणं प्राप l 
कासियस्य वचनं श्रुत्वा 'इयागो:कुबुद्ध्या: फलमेतत् कासियस्य स्थानभ्रम्शमिति स्वभर्तारम् न्यवेदयत् l 
तस्या: प्रेरणया पुनरपि कासियस्य स्थानलाभं अजायत l सैप्रसत: आनीतम् चित्रलिखितं अतीव सुन्दरं एकं हस्तांशुकं  स्वप्रेयस्यायै सम्मानित्वा ओथल्ल: गतवान् l 

     अचिरेणैव स्थानभ्रष्ट :इयागु: प्रचण्डवात : इव ओथल्लम् प्राप -"प्रभो ! मम स्थानभ्रंशं निस्सारमेव l किन्तु उदारशालिनं भवन्तं प्रति कासियस्य वञ्चनां सोठुम् अहमशक्त:l कासियं प्रति डस्तिमोणाया : अनुकम्पा  नास्ति  परं अनुरागमिति जानीथ भवान् " इति l बहुवारं चिन्तयन्नापि पत्न्या: पातिव्रत्यं निराकर्तुं अशक्त:
ओथल्ल:l एतदन्तरे दुष्ट: इयगु: पत्न्या एमिल्ल्या द्वारा ओथल्लेन दत्तं हस्तांशुकं अपह्रुत्वा कासियं सम्मानितवान् l कासियस्य हस्ते स्वेन प्रेयस्यायै दत्तं हस्तांशुकं दृष्टा ओथल्ल :इयागुना खनिते गर्ते 
अपतत् l स्व भार्यां प्रति  संशयितमन:ओथल्ल:तां हन्तुं निश्चिकाय l शयनगृहे शयिते डस्तिमोणां परुषवचनै :
बहुवारं निनिन्द  l 
                            'मुहुर्मुह्र्निवारितोपि स:निनिन्द तां परुष वचनै :ओथल्ल:l 
                             संशयित चेतस्तु न करोति  चिन्तां कार्याकार्य विवेचनेषु सन्ततम् 'l l 
स्वापराधित्वम् बहुवारं वदन्त्यपि सम्शयितमन: ओथल्ल:असिना भार्यां मारितवान् l तदा आगता 'एमिली '
डस्तिमोणाया :निरपराधित्वम् ,स्व भर्तृ : कुटिलतां ,हस्तांशुककथां च उक्त्वा ,पतिपरायणां महतीम् हत्वा 'ओथल्ल:पुरुषवर्गस्याखिलस्य परिहास्य: भवेत् 'इति प्रवचनं  अकरोत् l 
  "आगामिनिषु जन्मेषु अपि भवान् एव मम पति :" इति वारं वारं प्रतिज्ञां कृत्वा  सा पतिव्रता डस्तिमोणा 
प्राणान् मुमोच l विदितवृत्तान्त:ओथल्ल:  "हे प्राणप्रेयस्वी अहं क्षमां नार्हति l भवत्या:स्नेहं अविश्वसन् अहं वञ्चक:,अभिशप्त:च अभवं "इति विलपन् असिना  मारितवान् l 
वञ्चनानभिमुखां ,नितान्तनिर्मलां सारग्राहिणां स्व प्रियतमां गाढगाढमालिङ्ग्य ओथल्ल:मृतिं प्राप l 

शुभम् 

Tuesday 20 January 2015


बालिवधम् 

संस्थानतले कूटियाट्टम् स्पर्धायां 'ए 'ग्रैड् प्राप्तवन्ता :सङ्घ : 
एस् .एच् .सी .जि .एच् .एस् .थ्रिस्सूर् 

Friday 12 December 2014

अनुमोदनम्

                   संस्थानतलकलोत्सवे संघगान स्पर्द्धायां' ए ग्रैड् ' श्रेणी प्राप्ता: एस् .एच् .सी .जी .एच् .एस्                              विद्यालयीया :छात्रा:l 

Monday 4 August 2014

अहं भारतस्य.......................



संस्कृतज्ञानां अस्माकं महादभिमानास्पदं भवति पुरो दत्तं वार्ताशकलं l  "अहं भारतस्य एकाधिपति चेत् प्रथम कक्ष्यायां एव भगवत् गीतां महाभारतं च पठनविषयत्वेन अङ्गीकृतं भवेत् " इति 'सुप्रीम् कोर्ट जड्जि ' श्री.ए .आर् .दावे अभिप्रैति l मनुजावकाशप्रश्नसंबन्धीषु अन्धर् रज्यान्तरसङ्गोष्ट्याम् प्रभाषणावसरे तेन उद्घोषितमेतत् l 
ट्री सा एस् .एच् 

Monday 28 July 2014

सर्वेभ्यो केरलवासिभ्यो सोदरेभ्यो
 'ईदुल्फ़ित्तेर् 'आशंसा:

Thursday 19 June 2014

अनुस्मरणयोग :

तृश्शिवपुरम्- श्री अशोकन् पुरनाट्टुकरा दिवं गत्वा अद्य 41 दिनानि अतीतानि l अद्य आयोचिते संस्कृतद्यापकसंमेलने तस्मै अनुस्मरण योग: प्रचालितं l योगे सेन्ट् तोमस् हयर् सेकन्दरी प्रिन्सिपल् अध्यक्षपदं अलंकृतवति l तस्मै नित्यशान्तिं प्रार्थयन् योगं आरब्दं
विवेकोदयं उच्चविद्यलयीय प्रिन्सिपल महोदय: श्री .राजगोपालन्  अनुस्मरण प्रभाषणं कृतवान् l केरलविद्यभ्यासमण्डले संस्कृत भाषाया: प्रचारणार्थं अनेन महाभागेन कृतानि प्रवर्तनानि कदापि न कोऽपि विस्मरिष्यति इति अभिप्रैति l 
श्री प्रवीणकुमार् स्व गुरुं श्री अशोकन् महाभागं अनुस्मृतवान् l श्रीमति सीना महाभागा कृतज्ञतां अवदन् l 

Saturday 31 May 2014

आशंसा:

      भो, सर्वे अद्यापक सुहृद: ! नव अद्ययनवर्षं  बहु निकटं खलु l  वयं सर्वे परिशीलनं प्राप्य नवनव प्रतिज्ञां कृत्वा विद्यालयं गन्तुं उत्सुका: भवाम: l
'ऐ .टि'  बन्धित कक्ष्यां चालयितुं इदं 'ब्लोग् 'अतीव सुखकरी इति वदामि l
सर्वेभ्यो सर्वमंगलानि भवन्तु    l 
(ब्लोग् लेखिका ) 

Friday 23 May 2014

प्रार्थनागीतं

सत्यमेवेश्वरो लोके 
सत्यमेव पितरौ लोके l 
सत्यमेव गुरुर्लोके 
सत्यात् नास्ति परम् सुखं l l 
सस्यश्यामलममूम् भूमौ 
 नित्यमङ्गलम्  भवेत् नूनम् l 
सर्वेषु चराचरेषु नित्यं 
सॊदरत्वेन कल्पनम् l l 
विज्ञानमखिलं धृत्वा 
भूगोलमखिलम् सदा l 
ज्ञानप्रकाशं दातुं 
शक्तिं कुरु हे !प्रभो !( शक्तिं कुरु हे !प्रभो !) 
ट्रीसा,एस् .एच्  

Thursday 22 May 2014

का मे प्रिया स्यात् ?


बालिका चेदहम् का मे प्रिया स्यात्?
विचिन्तने न किमपि  शक्नोम्यहम् l 
सौख्यदायकान् तृणमपि 'मे प्रिया स्यात् '
तस्य कारणं सर्वै: सुविदितं l l 
आकाशे तिष्ठन् चन्द्रमामा वा 
मृदुकोमलं मातुरङ्कं प्रिया स्यात् l 
नाहं जाने दातुमुत्तरं भो!
मन्यतां केवलं बालिकाहम् l l 
अवगन्तुं न मे चिन्ताशेषिं 
वृतान्तान्   परित: जायमानान् l 
अप्रियं प्रियमिति विभागद्वयम् 
ञ्जातुम् न शक्नोमि भो!सुहृद !l l 
आयाति निद्रां मम नयने 
निद्रां करिष्यामि विलम्बम् विना l 
वर्तेत सर्वॆ भो!चराचरा:,
नित्यं मे प्रिया सुखदायिनी l l 
(अद्यापकपरिशीलनकक्ष्यायां निर्मिता कविता)
(ट्रीसा ,एस् .एच् )

Wednesday 21 May 2014

औषधस्य , घटकद्रव्याणां च नामानि

                   
  औषधस्य  नाम                          घटकद्रव्याणां नामानि  च।
                                                         ं
१. जीरकारिष्टं          जीरकम्, शुन्डी (ചുക്ക് ), जातीफलम्, मुस्तकम् (മുത്തങ്ങ ), चतुजाता
                      (ഏലതരി, ഇലവരങം, പചില, നാഗപൂവ് ),
                      जवानिका(കുറാശാണി), दॆवपुष्पा (ഓരിലതാമര), ധാതകീ
                      (താതിരിപവ്), गुड:।
२. बलारिष्टं           बला, अश्वगन्धा , पञ्जाङ्गुला വെളുത്ത  ആവണക്കിൻ വേര് ), रासना
                      (അരത), इला (പേരേലം ), प्रासारिणी (മുക്കുറ്റി ), दॆवपुष्पा , उशीरम्
                      (രാമചം), श्वदंष्टरा  (ഞെരിഞ്ഞിൽ വേര് ), धातकी, गुड:।
३. अषचूणरम्          शुन्डी (ചുക്ക് ), कृष्णमरीचं  (കുരുമുളക്), पिप्पली ,अग्निकम्
                      (അയേമാദകം), सैन्धवम्  (ഇന്തുപ്പ് ), जीरकम्, कृषणजीरकम्, हिङ्गु:
                      (കായം).
४. तालीसपत्रादिचूर्णं  तालीसपत्रम् (കീഴാരെനലി), मरीचं ,शुन्डी ,पिप्पली, ऊर्ध्वाक्ष:
                      (ഇലവരങം), एला (ഏലതരി).

आयुर्वेदाचार्या:




Tuesday 20 May 2014

वृक्षायुर्वेदं

अशोकं 
निम्बं

                                
आटु वञ्जि 

कदम्बु 

नारकम् 

कुंकुमं 

जम्बूफलं 



नेन्मेनि वाका 

पुन्ना 

जाति 

पुन्ना वाका 

पनसम् 

द्राक्षा 

Wednesday 11 September 2013

श्रावणगानं

 'अत्तम् 'आगतं भो ! केरलनिवासिन:!
जाग ! सोन्मेषं सूर्योदयात् पूर्वम् ! l 
सम्पादयतु कुसुमसन्चयं सामोदं 
रचयतु रन्गवल्लय:श्रावणोत्सवं यावत् l l 
गायतु महाबलेर्चरितं सतालम् 
सुविदितं महाबले: कैरलीगानं  l
"मावेली राज्ञ :भरण काले ..............सर्वे मनुजा: एकयेव 
नास्ति असत्यं वन्जना च............. नास्ति वृथावचनानि नित्यं "l l
 क्रीडतु 'तिरुवातिरक्केलि 'नटनवैभवै:
कैरलीनार्य:! प्रियसख्य:! मुदा l l 
ट्रीसा .एस् .एच्  

Monday 5 August 2013

संस्कृतदर्पणम्

त्रिश्शूर सर्वकारीय मोडेल बोयस् विद्यालये संस्कृतदिनाचरणं आयोचितंl'संस्कृतदर्पणम् 'इति  नाम्ना प्रदर्शनं अचालयत् l संस्कृतकलापरिपाटय :च आसीत् l संस्कृतग्रन्था:,प्राचीना नवीना च उपकरणा:,शाकादीनि नित्योपयोगवस्तूनि च संस्कृतनाम्न्यै : तत्र प्रदर्शिता:आसन् l वात्मीकिरामायणम् च आसीत् l 
  ट्रीसा एस् .एच् 

Thursday 21 February 2013

पावकयष्टि:- संस्कृतं

                    भारतीयानां पैतृकभाषा एव भवति  संस्कृतं इति सत्यं सर्वै:कुर्वन्ति  l संस्कृत भाषाया: अधिकानि कीर्तनानि संत्यपि अस्या: सुप्रचालनं अनुदिनं शुष्यते इत्यत्र नास्ति भिन्नाभिप्राय:इत:पर्यन्तम्
 न केवलं सर्वकलाशालायां  विद्यालयीयतले अपि संस्कृतस्य स्थिति शोचनीया l 
किन्तु कालमनेकं तर्त्वा अपि  अस्माकमाभिलाषाणि तीरं प्राप्नुवन्तीव मम मन: कथ्यते l     
भो!अनुवाचका:प्राथमिककक्ष्यात:एव संस्कृतभाषा पाठ्यविषयत्वेन
 अचिरात् एव अङ्गीकरिष्यति इति मन्त्रिपुङ्गवै:प्रख्यापितवन्त:l इत:परम् संतोषं किं संस्कृतन्जानां ? l  आगच्छतु संस्कृतञ्ज:, आगच्छतु ! आनन्दनृत्तं करिष्याम:!l  
"अधोमुखं गृहीतोऽपि उच्छिखो अग्नि:ज्वलिष्यतिl 
ऊर्ध्वप्रयाणम्  प्रथितं वीतिहोत्रस्य सर्वदा l l "
ट्रीसा .एस् .एच् 

Monday 21 January 2013


एस् .एच् .सी .जी .एच् .एस् .तृस्सूर विद्यालयम् केरलसंस्थानतले आयोजिते संस्कृतोल्सवे संस्कृतनाटके प्रथमस्रेणी प्राप्तम् l नाटकं 'आश्चर्यचूडामणि 'l

Tuesday 28 August 2012

रङ्गवल्ली

आगतं !  पुनरपि श्रावणं विश्रुतं 
आगतं !  पुष्पफलसस्यादिभिर्मुदा  l 
स्वागतम्! स्वागतम् श्रावणं विश्रुतं 
स्वागतम् ! उच्यते केरलजनतति: l l 
श्रावणे उत्सवं केरलस्योल्सवं 
श्रावणोत्सवं तु  महाबलेरुत्सवं l 
आयातु आयातु भो महाबले !
आयातु श्रावणमासे ,सुस्वागतम् l l  
ट्रीसा .एस् .एच्  




Wednesday 15 August 2012

श्रीमति राधा अन्तर्जनं
आदरांजली...................

अनुस्मरणं 
                    माकिं सप्तवर्षेभ्यो  पूर्वमेवेति अहं अपश्यं तां  
श्रीमति राधा नामा अध्यापिकां l दर्शने एव सा एका संस्कृताध्यापिका
 इति बोधं  मम मनसि अजायत l कुलीना ,विनयसंपन्ना ,शान्तशीला ,
मृदुस्मेरा ,स्नेहमयी, ततोपरि संस्कृतभाषापण्डिता सा मां हढात्
 आकर्षयत् l संस्कृतकलोल्सववेदिकासु आवयोर्मिथ : स्पर्धां चेत् 
अपि ,स्नेहबन्धं ततोपरि अवर्धयत् l  दैवदुर्विपाकात् अचिरेणैव सा 
रोगग्रस्ता अभवत् l अहो! कष्टमेव आसीत् एतत् वार्तां l अधुना सा कालयवनिकाया:पश्चात् गता l 
                      भो !मृते ,वयं त्वाम् जिता :अभवाम:l अस्माकं
 मनांसि सा  जीवति जीविष्यति च l कृष्णमिव संस्कृतप्रणयिनी राधे ! त्वाम् स्मरामि नित्यं नित्यम् l          
  ट्रीसा .एस् .एच् तृष्शूर .                      

Tuesday 14 August 2012



दृश्यविस्मयं                                                     

महादृश्यविस्मया भवति  पृथ्वी !
पश्य ! पृथ्व्या: चमत्कारा: l
जीवजालानि, विविधानि सस्यानि
सर्वे पृथ्व्या: दृश्यविस्मया:l l 
विविधवर्णाभरणै : षट्पतङ्गा :,
गम्भीरमुखाभरणै : केसरिण :,
मूर्धनि शिखाभूषितै: मयूरा:,
 मणिना भूषिता:भुजङ्गा:च (सर्वे पृथ्व्या: दृश्यविस्मया:l l )
कलकलशब्दै: प्रवहति नदीदेवी ,
नगाधिराजस्तु हिमालयो ,
हरितवस्त्रधारिणी पश्चिमघट्ट :,
अनन्तो रत्नाकर:च (सर्वे पृथ्व्या: दृश्यविस्मया:l l )
सागरात् आगतो आदित्य:,
निशाबान्दवो शशाङ्ग :,
वर्षमेघादागतो जलकण:,
भिन्नभिन्ना: ऋतुभेदा :(सर्वे पृथ्व्या: दृश्यविस्मया:l l )
किं  बहुवक्तव्यं ?
मानवास्तु महाविस्मया:,
जीवजालै: सहवर्तित्वम् तथा आत्मबन्दंश्च 
सर्वे पृथ्व्या: दृश्यविस्मया:l l 
रचना -( दीपिका के .पी ,कक्षा - 9 ,एस् .एच् .सी .जि .एच् .एस् .तृस्शूर )
        संस्कृतदिनाचरणे कवितारचनास्पर्धायां प्रथमस्थानीया

Thursday 9 August 2012

संस्कृतदिनाघोषः


पठनकेलिः

चेर्प् सर्वकार विद्यालये अपि संस्कृतदिनाघोषः............

चेर्प् सर्वकार विद्यालये संस्कृतदिनाघोषस्य अङ्गतया विविध कलाकार्यक्रमाः, छात्रवृत्तिदानम्, पठनकेलिः च सञ्जाताः।कार्यक्रमे विख्यातप्रभाषकः वि.बि माधवन् नम्पूतिरिः मुख्यातिथिः आसीत् । ततः कानिचन दृश्यानि।

सुजाहरिदासः

Tuesday 7 August 2012

संस्कृतदिनाघोषं महामहं
 त्रिशूर ,
30/07/2012 
           एस .एच सी .जी .एच .एस. विद्यालये संस्कृतदिनं समुचितया रीत्या आचरितं l कवितारचना ,कथारचना ,प्रस्नोत्तरि,समस्यापूरणम् इत्यादि विषयेषु स्पर्धा:आयोजिता : l दिनाचरणे विद्यालयसभा संस्कृतभाषायामेव प्रचालितं l  
प्रधानाध्यापिका सिस्तेर.मारिया जोस महाभागा  पुरस्कृतेभ्य : छात्रेभ्य :पारितोषिकन्यापि संमानितवति l तत्  दिने विध्यालये संस्कृतपुस्तकानां एका मेला अपि आयोचितं  l मेलायां 7000/  रुप्य्कानां पुस्तकानि विक्रीतानि इत्येतत महादास्च्र्यकरं l कोद्दुन्गल्लूर प्रतिष्टानेन मेला प्रचालिता l


                     पुस्तकमेला 

  ट्रीसा ,एस्.एच्

Saturday 14 April 2012

स्वागतम् सुस्वागतम् नववत्सरस्य सुस्वागतम् 
भूयो भूयो भवतु समृद्धिं, भूयो वर्धतु नवचैतन्यं l
करोतु नित्यं कर्मविशेषान, कुरु पुण्यं  राष्ट्रप्रगत्यै
भो  !वदतु समभवनया नववत्सरसय सुस्वागतम्  l 
  ट्रीसा ,एस्.एच्

Sunday 8 April 2012

सर्वेभ्यो ईष्तर दिनाशंसा :  


सत्यमेव  जयते
सत्यं न म्रियते 
सत्यं तु शाश्वतम् 
सत्यं परमो सत्यं l l  
ट्रीसा.एस् .एच्

Wednesday 29 February 2012

विश्वसंस्कृतप्रतिष्ठानम् छात्राणां कृतॆ विरामसमयॆ शिल्पशालाम् आयोजयति। उत्सुकाः संपर्कं कुर्वन्तु ।
9961781704

      स्थानम्           S.D.V.H.S.S PERAMANGLAM
         दिनाङ्कः            APRIL 1-7


 
 

Tuesday 14 February 2012

S.s.l.c. model sanskrit question paper is an insult to samskrit.
 We strongly protest against it.
 इतः परं एतादृशं अपमाननं न सहामहॆ। संस्कृतनिन्दा मातृनिन्दॆव। 
वीरप्रसूः सा कदापि न रुद्यात्।

Thursday 26 January 2012

गेयं गेयं पुनरपि गेयं ....

गेयं गेयं पुनरपि गेयं मातृभूमे: पावनचरितं  l 
पेयं पेयं भूयोऽपि पेयं हिमगिरि गलिता सूक्तिसुधेयं l l  
                               ( गेयं गेयं पुनरपि....)
त्रेतायां भग्नत्रयम्बकध्वनिना पुलकित गात्रीयं भूमिकन्या  l
सामगान केतकीसुगन्धै:व्याप्र्तमत्र मनुकुलचरितं    l l 
                               (गेयं गेयं पुनरपि....)
विकसन्ति विविधधर्मसूनव: अद्वैतामलभावोद्याने   l
उदयति विश्वभानु सामोदं मानवसेवाविमलाकाशे   l l  
                              ( गेयं गेयं पुनरपि....)
त्यागहिमालय शृङ्गोन्मादिनि निर्झरनिर्झरि प्रवहत्यत्र   l
काव्यचन्दन पौर्णमीलालित प्रेमयमुनासंगीतसान्द्रा   l l 
                              ( गेयं गेयं पुनरपि....)
आत्मसमर्पणतत्परैरनेकै :  सुतवरैरचयन्ति वीरसंस्कृती  l
देशस्नेहज्र्म्भितमनसा गायति पावन स्वातन्त्र्यगाथा    l l  
                              ( गेयं गेयं पुनरपि....)

प्रफुल्लचन्द्र:    इ .एस्
यं बी उच्चविद्यालयं ,तृस्शूर.