संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Saturday 30 May 2015

एहि ! मिलामो वयम्

               
पुनरपि एको अद्ययनवर्ष: समारभ्यते l छात्रा :सर्वे नूतन पठनोपकरणानि समाहृत्य विद्यालयं गन्तुं उत्सुका : भवन्ति l नूतनपठनरीत्या छात्रान् आकर्षयितुं सर्वकारोऽपि नुतनकार्यक्रमा: आयोजिता:l महत् सन्तोषदायकमिदं अवसरं सम्यक् विनियोक्तुं सर्वेभ्यो अध्यापकसुह्रुद्भ्य :सुस्वागतम् l 

ट्रीसा .एस् .एच् 

Thursday 14 May 2015

समस्यापूरणम्



(त्रिश्शूर संस्कृताध्यापकपरिशीलने क्रियमाणात्  समस्यापूरणनिर्माणात् उद्धृतानि इमानि .........)

विषय:-  'वने वनं नास्ति वदन्ति राजम् '


1.  सज्ज रथं भो ! मृगयार्थं वने 
आदिदेश सेवकान् कुतूहलम् l 
संकेतो आतङ्कवादिनाम् 
वने वनं नास्ति वदन्ति राजम् l l 
(ट्रीसा ,एस् .एच् त्रिश्शूर् )

2. सुसंमिलिताश्च सर्वे जन्तव:
वनमहोत्सवे सुदिने काले l 
भयग्रस्ता:अनन्यगतिकास्ते 
वने वनं नास्ति वदन्ति राजम् l l 
(विनोद्  वी . पी ,सी ए एच् एस् एस् पालक्काट् )

3. पानाय स्नानाय च खादनाय 
अभ्यागच्छति वनगजा:देशे l 
अन्विष्यतां कारणं भो !सेवका:-
वने वने नास्ति वदन्ति राजम् ll 
 (ट्रीसा ,एस् .एच् त्रिश्शूर् )


4.मृगद्विजसंकुलं पुष्पफल -
शोभितं ,निर्मलनिर्झरीयुक्तम्  l 
वनमन्विष्य भ्रमाम्यहं किन्तु 
वने वनं नास्ति वदन्ति राजं l l 
(सरिता पी के ,सी जे एम् एच् एस् एस् वरन्दरप्पिल्ली )


विषय:-'कार्याकार्यं विचिन्तयेत् '

1. उक्तं वाचं , क्षिप्तं दण्डं
नैव हि प्रत्यागछति l 
अतयेवोच्यते  बुध्दः :
कार्याकार्यं विचिन्तयेत् l l 
 (ट्रीसा ,एस् .एच् त्रिश्शूर् )

2. प्रकम्पमानो संसार:
शीर्यमाणं च शरीरं 
गच्छत्यायुस्तस्मात् बुध्दः 
कार्याकार्यं विचिन्तयेत् l l 
(विनोद्  वी . पी ,सी ए एच् एस् एस् पालक्काट् )

3.सन्ति कर्माण्यनेकानि  
लोके सर्वस्य वै परं l 
देशे काले च पात्रे च 
कार्याकार्यं विचिन्तयेत् l l 
(सुजा हरिदास् )

4.समस्यापूरणं कृत्वा 
गृहकर्माणि विस्मृतां l 
स्वश्रूरेव बोधयेन्मां 
कार्याकार्यं विचिन्तयेत् l l 
(प्रिया ,तृक्कूर् )


विषय:- 'आ  हन्त ! लोको मुमुते धनेन '

आ   हन्त ! मन्ये धनमेव सत्यं 
आ   हन्त !  मन्ये रमते धनेन l 
आ   हन्त !  नष्टं मरणे नरस्य 
आ   हन्त ! लोको मुमुदे  धनेन l l 
(प्रसाद् सी आर् ,माता एच्  एस्  मन्नंपेट्ट )

2. नीते ! भृशं त्वयि खिद्यामि सोऽहं 
यो विष्णुगुप्तसरणीं प्रत्याप्तुकाम:l 
सरितेति माणीति ते जयखानमुख्या:
आ हन्त ! लोको मुमुदे  धनेन l l 
(सुजा हरिदास् )

3. निरन्तरातिष्टसुखप्रवाहो 
नोत्पद्यते आशु ज्ञानं विनैव l 
तथाप्याश्चर्यमयं भवत्येतत् 
आ हन्त ! लोको मुमुदे  धनेन l l 
(विनोद्  वी . पी ,सी ए एच् एस् एस् पालक्काट् )

4. कस्त्वम् निर्णेतुं आयुषं भुवि ?
पश्य मूठ ! प्रकृतिविकृतय: l 
ततोऽपि वर्धते धनलिप्सा ?
आ हन्त ! लोको मुमुदे  धनेन l l 
(ट्रीसा ,एस् . एच् त्रिश्शूर् )


 विषय:-     वर्षाकाल: समागत:l 


1.वैशाखो न हि निर्गत:

शाला नैवोद्घाटित:l 
न जाने तरसा कुत:
वर्षाकाल: समागत:l l 
(सुजा हरिदास् )

2.व्यजनं  स्थगितं  अम्बा !
मशकदंशोऽभवच्च l 
किमहं करोमि पुत्र:?
वर्षाकाल: समागत:l l  
(ट्रीसा ,एस् . एच् त्रिश्शूर् )

3.विद्वद्भि:मण्डितां सद्भि:
शास्त्रीयार्थ विमर्शिकाम् l 
चिन्तयेऽहं सभां नत्वा 
वर्षाकाल: समागत:l l 
(विनोद्  वी . पी ,सी ए एच् एस् एस् पालक्काट् )