संस्कृतोपासना

अनुवाचकेभ्यो स्वागतम् !कृपया भवत: अभिप्रायं अपि प्रकटयतु.....

Thursday 22 January 2015

ओथल्ल:- चम्पु


((आन्गलेय सहित्यकारस्य षेक्स्फीयर महाभागस्य 'ओथल्लो ' इति कृतिं  अवलम्ब्य  कृतं एकं चम्पुप्रभाषणं  )
(रचना - ट्रीसा .पी .ए , एस् .एच् .सी .जी .एच् .एस् .थ्रिस्सूर् )(संस्थानतले कलोल्सवे बहुवारं सम्मानितम् एतत् चम्पु  l  रचना -2011 तमे वर्षे ))

नम : सभायै ,
      भो भो कला सहृदया :, मम कथा 'ओथल्ल:'l भो भो तत्र पश्यतु ! वेनीस् नगरं कमपि आघोषाय सज्जा भवति l नगरवीथय:अत्यन्तं रमणीयतां भजते l सर्वत्र उत्सवप्रतीतय : च l
पश्य -          ' दुन्दुभिघोष:प्रचलन्ति 
                    मङ्गलनिनद : प्रसरन्ति l 
                    सैनिकगणमिह आयान्ति 
                        सर्वे तोषं कलयन्ति l l '
 भो ! यं कमपि विञ्जापनमिव श्रूयते -(श्रद्धां दत्वा )"आफ़्रिक्का देशात् आगत:मूर् वंशीय:, वीरयोद्धा ,सर्वादरणीय: सौशील्यवान्, औदार्यवान्  वेनीस नगरस्य सेनानी ओथल्ल: समागच्छति l जयतु जयतु नितरां " इति l
तत्र राज्य सभायां पश्यतु ! तत्र वेनीस राष्ट्रसभाङ्ग :ब्रबान्सिय:,तस्य पुत्री डस्तिमोणा ,वीरयोद्धा ओथल्ल: च तिष्ठन्ति l   ब्रबान्सिय : ओथल्लम् स्वागतम् वदति ; "त्वम् चिरञ्जीवीं भव " इति आशंसां च  करति l ओथल्ल:शिर:नमित्वा कृतज्ञताम्  वदति l ब्रबान्सिय:विज्ञापयति यत् -'ओथल्ल्:! वीरसेनानी ! तुभ्यं पारितोषिकत्वेन अस्य नगरसमीपवर्तिन: सैप्रस् द्वीपस्य अधिकारपदवीं च दास्यामि l स्वीकरोतु इयं अधिकारपत्रं "(अधिकारपत्रं ददाति ,किरीटं च धारयति )l
                   ' दुन्दुभिघोष:प्रचलन्ति 
                    मङ्गलनिनद : प्रसरन्ति l 
                    सैनिकगणमिह आयान्ति 
                        सर्वे तोषं कलयन्ति l l '
"ईश्वरस्य नाम्ना अहं प्रतिज्ञां करोमि यत् मम प्रयत्ना:सर्वे अस्य राज्यस्य प्रगत्यर्थं करिष्यामि l इदं सत्यं !सत्यं !" इति ओथल्लस्य सत्यप्रतिज्ञानन्तरं सर्वे गता:l किन्तु ....एका सा...... तत्र ...ओथल्लम् एव वीक्ष्य प्रतिमासमं तिष्ठन्ति l सा ....का ?...........सयेव .........
                                                             '  सर्व मङ्गलरूपा पवित्रा 
     विश्वसुन्दरी डस्तिमोणा l 
सर्वेषामपि मनोहारिणी 
         वेनीस् नगरस्य स्वीयपुत्री 'l l
ओथल्लमपि सर्वं विस्मृत्वातस्या: सौन्दर्यं नयनैर्पिबन् अद्भुतस्तब्ध: यान्त्रीकमिव तस्या: समीपं गत्वा उक्तवान् -"भवती का ? भवत्या: सान्निद्यमत्र ....? हे सुन्दरी ! यं किमपि वदन् मम जिज्ञासां श्याम्यतु "इति l 
 डस्तिमोणा स्वयम् परिचायनं कृत्वा प्रत्युत्तरयति -"अयोमय सदृशं भवत: शरीरं शारीरं च मां हठात् आकर्षयत् l कर्णाकर्णिकया श्रुता: वीरकथा: सत्यं इति जाने l भवान् न केवलं मम पितु:ममापि हृदयचोर:भवसि" इति  l तयोर्मिथ:जातेन परस्परानुरागेण आचारानुष्ठानानि विलङ्घ्य गान्धर्वविधिना विवाहितौ तौ तत:गतवन्तौ l 
 समये गते एतत् वृत्तान्तं ओथल्लस्य अनुचरेषु अरण्याग्निरिव प्रचारयत् l चोरस्स् निहिता कुञ्चिका !l 
जन्मना दुष्टमूर्ति :इयागु:अमूम् अवसरम विनियोक्तुं निश्चिकाय l स: मित्रं कासियं अवदत् -"वैदेशिकस्य ओथल्लस्य ईदृशं पुरोगतिं सोढुम् नाहं मूर्ख :l  अहं किं करोमि इति पश्यतु " इति l बहुवारं कासियेन निवारितोऽपि स:इयागु: राष्ट्र्सभाङ्गाय सर्वं न्यवेदयन् l 
"किं स: दुष्ट: कुत्र ?..............
                     'आनय सभायां बन्धित्वा वञ्चितं  l 
                      दण्ड्यामहं वधशिक्षया निर्घृतं अविवेकिनं 'l l 
इति आक्रोशयन् ब्रबान्सिय: अस्वस्थो अभवत् l किञ्चित् समयानन्तरं बन्धित: ओथल्ल: भटै : आनीतवान् l 
नम्रशिर: ओथल्ल: वक्तुमारभत -"हे प्रभो ! कृपया मां श्रुणोतु ; तव पुत्र्या साकं मम अनुरागं तत: यावज्जीवं 
अनुष्टेयं सुखजीवनं च निराकर्तुं नाहं भीरु:l तथापि भवत: अशीर्वचनानि मह्यमनिवार्यं l कृपया स्वीकरोतु ममाञ्जलि :" इति l "हे वीर:! तव धीरतायां आकृष्टोहं l त्वमेव मम पुत्र्या: अनुयोज्य: l मङ्गलानि भवन्तु ! " इति l 
एतदन्तरे' सैप्रस् ' देशे युद्धकाहलम् मुखरितम् l ओथल्ल: प्रियपत्न्या: संरक्षणं इयागो: पत्न्यां 'एमिल्ल्यां '
दत्वा कासियेन सह युद्ध भूमिम् गतवान् l भर्तारं विजयं आशंसयन्ती पतिव्रता डस्तिमोणा सुहृदा साकं वासं आरभत -
                    'जगदीश्वर !जगदीश्वर ! पालय पालय पतिं   नित्यं l 
                     युद्धं जीत्वा विजयी भूत्वा आनय आनय पतिं श्रेष्ठं 'l l 

इति प्रार्थनामन्त्रै :दिनानि अतीतानि l अचिरेणैव विजयश्रीलालित:ओथल्ल:द्वीप संरक्षणे कासियं नियुज्य पत्नीम् द्रष्टुं समागतवान् l तदन्तरे जाते कलहे कासियस्य भागभागित्वम् ज्ञातवान् ओथल्ल:तं द्वीप 
संरक्षणाधिकारात् भ्रंशयित्वा तत्स्थाने इयागुं न्ययुक्तवान् l अधिकारभ्रष्ट: कासिय:डस्तिमोणां शरणं प्राप l 
कासियस्य वचनं श्रुत्वा 'इयागो:कुबुद्ध्या: फलमेतत् कासियस्य स्थानभ्रम्शमिति स्वभर्तारम् न्यवेदयत् l 
तस्या: प्रेरणया पुनरपि कासियस्य स्थानलाभं अजायत l सैप्रसत: आनीतम् चित्रलिखितं अतीव सुन्दरं एकं हस्तांशुकं  स्वप्रेयस्यायै सम्मानित्वा ओथल्ल: गतवान् l 

     अचिरेणैव स्थानभ्रष्ट :इयागु: प्रचण्डवात : इव ओथल्लम् प्राप -"प्रभो ! मम स्थानभ्रंशं निस्सारमेव l किन्तु उदारशालिनं भवन्तं प्रति कासियस्य वञ्चनां सोठुम् अहमशक्त:l कासियं प्रति डस्तिमोणाया : अनुकम्पा  नास्ति  परं अनुरागमिति जानीथ भवान् " इति l बहुवारं चिन्तयन्नापि पत्न्या: पातिव्रत्यं निराकर्तुं अशक्त:
ओथल्ल:l एतदन्तरे दुष्ट: इयगु: पत्न्या एमिल्ल्या द्वारा ओथल्लेन दत्तं हस्तांशुकं अपह्रुत्वा कासियं सम्मानितवान् l कासियस्य हस्ते स्वेन प्रेयस्यायै दत्तं हस्तांशुकं दृष्टा ओथल्ल :इयागुना खनिते गर्ते 
अपतत् l स्व भार्यां प्रति  संशयितमन:ओथल्ल:तां हन्तुं निश्चिकाय l शयनगृहे शयिते डस्तिमोणां परुषवचनै :
बहुवारं निनिन्द  l 
                            'मुहुर्मुह्र्निवारितोपि स:निनिन्द तां परुष वचनै :ओथल्ल:l 
                             संशयित चेतस्तु न करोति  चिन्तां कार्याकार्य विवेचनेषु सन्ततम् 'l l 
स्वापराधित्वम् बहुवारं वदन्त्यपि सम्शयितमन: ओथल्ल:असिना भार्यां मारितवान् l तदा आगता 'एमिली '
डस्तिमोणाया :निरपराधित्वम् ,स्व भर्तृ : कुटिलतां ,हस्तांशुककथां च उक्त्वा ,पतिपरायणां महतीम् हत्वा 'ओथल्ल:पुरुषवर्गस्याखिलस्य परिहास्य: भवेत् 'इति प्रवचनं  अकरोत् l 
  "आगामिनिषु जन्मेषु अपि भवान् एव मम पति :" इति वारं वारं प्रतिज्ञां कृत्वा  सा पतिव्रता डस्तिमोणा 
प्राणान् मुमोच l विदितवृत्तान्त:ओथल्ल:  "हे प्राणप्रेयस्वी अहं क्षमां नार्हति l भवत्या:स्नेहं अविश्वसन् अहं वञ्चक:,अभिशप्त:च अभवं "इति विलपन् असिना  मारितवान् l 
वञ्चनानभिमुखां ,नितान्तनिर्मलां सारग्राहिणां स्व प्रियतमां गाढगाढमालिङ्ग्य ओथल्ल:मृतिं प्राप l 

शुभम् 

Tuesday 20 January 2015


बालिवधम् 

संस्थानतले कूटियाट्टम् स्पर्धायां 'ए 'ग्रैड् प्राप्तवन्ता :सङ्घ : 
एस् .एच् .सी .जि .एच् .एस् .थ्रिस्सूर्