संस्कृतोपासना
Tuesday, 28 August 2012
Wednesday, 15 August 2012
श्रीमति राधा अन्तर्जनं |
अनुस्मरणं
माकिं सप्तवर्षेभ्यो पूर्वमेवेति अहं अपश्यं तां श्रीमति राधा नामा अध्यापिकां l दर्शने एव सा एका संस्कृताध्यापिका
इति बोधं मम मनसि अजायत l कुलीना ,विनयसंपन्ना ,शान्तशीला ,
मृदुस्मेरा ,स्नेहमयी, ततोपरि संस्कृतभाषापण्डिता सा मां हढात्
आकर्षयत् l संस्कृतकलोल्सववेदिकासु आवयोर्मिथ : स्पर्धां चेत्
अपि ,स्नेहबन्धं ततोपरि अवर्धयत् l दैवदुर्विपाकात् अचिरेणैव सा
रोगग्रस्ता अभवत् l अहो! कष्टमेव आसीत् एतत् वार्तां l अधुना सा कालयवनिकाया:पश्चात् गता l
भो !मृते ,वयं त्वाम् जिता :अभवाम:l अस्माकं
मनांसि सा जीवति जीविष्यति च l कृष्णमिव संस्कृतप्रणयिनी राधे ! त्वाम् स्मरामि नित्यं नित्यम् l
ट्रीसा .एस् .एच् तृष्शूर .
Tuesday, 14 August 2012
दृश्यविस्मयं
महादृश्यविस्मया भवति पृथ्वी !
पश्य ! पृथ्व्या: चमत्कारा: l
जीवजालानि, विविधानि सस्यानि
सर्वे पृथ्व्या: दृश्यविस्मया:l l
विविधवर्णाभरणै : षट्पतङ्गा :,
गम्भीरमुखाभरणै : केसरिण :,
मूर्धनि शिखाभूषितै: मयूरा:,
मणिना भूषिता:भुजङ्गा:च (सर्वे पृथ्व्या: दृश्यविस्मया:l l )
कलकलशब्दै: प्रवहति नदीदेवी ,
नगाधिराजस्तु हिमालयो ,
हरितवस्त्रधारिणी पश्चिमघट्ट :,
अनन्तो रत्नाकर:च (सर्वे पृथ्व्या: दृश्यविस्मया:l l )
सागरात् आगतो आदित्य:,
निशाबान्दवो शशाङ्ग :,
वर्षमेघादागतो जलकण:,
भिन्नभिन्ना: ऋतुभेदा :(सर्वे पृथ्व्या: दृश्यविस्मया:l l )
किं बहुवक्तव्यं ?
मानवास्तु महाविस्मया:,
जीवजालै: सहवर्तित्वम् तथा आत्मबन्दंश्च
सर्वे पृथ्व्या: दृश्यविस्मया:l l
रचना -( दीपिका के .पी ,कक्षा - 9 ,एस् .एच् .सी .जि .एच् .एस् .तृस्शूर )संस्कृतदिनाचरणे कवितारचनास्पर्धायां प्रथमस्थानीया
Thursday, 9 August 2012
Tuesday, 7 August 2012
संस्कृतदिनाघोषं महामहं
त्रिशूर ,
30/07/2012
एस
.एच सी .जी .एच .एस. विद्यालये संस्कृतदिनं समुचितया रीत्या आचरितं l
कवितारचना ,कथारचना ,प्रस्नोत्तरि,समस्यापूरणम् इत्यादि विषयेषु
स्पर्धा:आयोजिता : l दिनाचरणे विद्यालयसभा संस्कृतभाषायामेव प्रचालितं l
प्रधानाध्यापिका
सिस्तेर.मारिया जोस महाभागा पुरस्कृतेभ्य : छात्रेभ्य :पारितोषिकन्यापि
संमानितवति l तत् दिने विध्यालये संस्कृतपुस्तकानां एका मेला अपि आयोचितं
l मेलायां 7000/ रुप्य्कानां पुस्तकानि विक्रीतानि इत्येतत महादास्च्र्यकरं l कोद्दुन्गल्लूर प्रतिष्टानेन मेला प्रचालिता l ट्रीसा ,एस्.एच्
Subscribe to:
Posts (Atom)