सपरिभवं वदाम्यहं मम वेदनां प्रभो !
कुत्र गतोऽसि त्वम् मां परित्यज्य ? l
किमर्थमागतोऽसि दादुमानन्दं ?
उत: शोकसागरे निमन्जयितुं किं ? l l
जानाम्यहं अद्य अनन्तमानन्दं नैमिषिक-
मित्येतत परमार्थसत्यं विलंबेन हि l
एवं सत्यपि प्रतीक्षां करोम्यहं भवान् !
नूनमागमिष्यसि त्वम् मम सकाशं l l
गायामि, नृत्यामि, रचयाम्यविरलं तुभ्यं
संस्कृते नित्यं नवनवोन्मेषशालिनीं गाथां l
आयातु ! मम सकाशं अविलंबं भवान्
क्षम्यतां !अविवेकिनं परिभवमखिलं l l
ट्रीसा,एस्.एच्.तृस्शूर
अतिमनोहरं कविता.........!!!!!!!
ReplyDeletedhanyavaada:
ReplyDelete