संस्कृतोपासना
Friday, 27 January 2012
Thursday, 26 January 2012
गेयं गेयं पुनरपि गेयं ....
गेयं गेयं पुनरपि गेयं मातृभूमे: पावनचरितं l
पेयं पेयं भूयोऽपि पेयं हिमगिरि गलिता सूक्तिसुधेयं l l
( गेयं गेयं पुनरपि....)
( गेयं गेयं पुनरपि....)
त्रेतायां भग्नत्रयम्बकध्वनिना पुलकित गात्रीयं भूमिकन्या l
सामगान केतकीसुगन्धै:व्याप्र्तमत्र मनुकुलचरितं l l
(गेयं गेयं पुनरपि....)
(गेयं गेयं पुनरपि....)
विकसन्ति विविधधर्मसूनव: अद्वैतामलभावोद्याने l
उदयति विश्वभानु सामोदं मानवसेवाविमलाकाशे l l
( गेयं गेयं पुनरपि....)
( गेयं गेयं पुनरपि....)
त्यागहिमालय शृङ्गोन्मादिनि निर्झरनिर्झरि प्रवहत्यत्र l
काव्यचन्दन पौर्णमीलालित प्रेमयमुनासंगीतसान्द्रा l l
( गेयं गेयं पुनरपि....)
( गेयं गेयं पुनरपि....)
आत्मसमर्पणतत्परैरनेकै : सुतवरैरचयन्ति वीरसंस्कृती l
देशस्नेहज्र्म्भितमनसा गायति पावन स्वातन्त्र्यगाथा l l
( गेयं गेयं पुनरपि....)
( गेयं गेयं पुनरपि....)
प्रफुल्लचन्द्र: इ .एस्
यं बी उच्चविद्यालयं ,तृस्शूर.Wednesday, 25 January 2012
अनन्तमानन्दं
सपरिभवं वदाम्यहं मम वेदनां प्रभो !
कुत्र गतोऽसि त्वम् मां परित्यज्य ? l
किमर्थमागतोऽसि दादुमानन्दं ?
उत: शोकसागरे निमन्जयितुं किं ? l l
जानाम्यहं अद्य अनन्तमानन्दं नैमिषिक-
मित्येतत परमार्थसत्यं विलंबेन हि l
एवं सत्यपि प्रतीक्षां करोम्यहं भवान् !
नूनमागमिष्यसि त्वम् मम सकाशं l l
गायामि, नृत्यामि, रचयाम्यविरलं तुभ्यं
संस्कृते नित्यं नवनवोन्मेषशालिनीं गाथां l
आयातु ! मम सकाशं अविलंबं भवान्
क्षम्यतां !अविवेकिनं परिभवमखिलं l l
ट्रीसा,एस्.एच्.तृस्शूर
Sunday, 22 January 2012
Thursday, 12 January 2012
वयं पन्चोतरं शतं
हिमवत् सानोरारभ्य आरबसागरपर्यन्तं
स्थूला विपुला तारुण्या सस्यस्यामलभूमीयं l l
भारतजननी ,पावनजननी ,त्यागशीला
घोष्यन्ते ;सर्वंसह इति घोष्यन्ते l l
भारतमाता धन्या माता !वयमस्या :पुत्रा : l
एकोदरजाता:पुत्रा:- वयं भारतपुत्रा: l l
पीत्वा भुङ्त्वा सहवर्तित्वे कालमनेकमतीतानि l
वर्धितमेवं पुत्रा: -भारतपुत्रा:,भारतमातुर्पुत्रा : l l
क्रीडनकाय ,अपूपाय रुदन्ति ,क्रुध्यन्ति- बाला: l
वयं बाला:, सुललिता: -भारतमातुर्पुत्रा : l l
कलहे जाते मास्तु भयं ! बाला: चेत् तत् विस्मरति
अन्येषां मिथ:युद्धं चेत् ; स्मर ! वयं पन्चोतरं शतं l l
ट्रीसा,एस्.एच्.तृस्शूर.
Wednesday, 11 January 2012
ललितगानं- (सामगान ...)
त्यागगङ्गाप्रवाहभूषिता स्नेहसैकत भूमीयं l l
(सामगान ... )
ऐन्द्रकार्मुखपिन्चावर्षै : हरितकञ्चुक शोभिता l
सागरनूपुरशिन्चितनादै : सेव्यतेङ्ख्रिपन्कजा l l
(सामगान ... )
अत्रोषायां पन्पासलिले ध्यायति सूर्य: शास्तारं l
नीहारजपमाल स्वीकुर्वन्ति मुकुलित हस्ता :मुनिनलिना: l l
(सामगान ... )
रागचन्द्रिक चर्चितसरसि स्वप्नकैरव कलिकोन्मादं l
वंशवनेषु निलीनसमीर: गायत्यत्र वेणुसंगीतं l l
(सामगान ... )
रतिसुखसारे यमुनातीरे प्रवहति कोमलकान्तपदावली l
रससमीहित काव्यपयोधा: वर्षन्त्यत्र नूतनसंस्कृतिं l l
(सामगान ... )
निहतासहचरविरहकातरां दृष्यन्तेत्र रुदितानुसारिभि:l
भूमिसुताया:चरित्रपूता:मोहना चेयं भावना l l
(सामगान ... )
प्रफ़ुल्लचन्द्र: इ .एस्
यं .बी.उचविद्यालयं, तृस्शूर.
Tuesday, 10 January 2012
लकारा:सरला: ....
संस्कृतभाषायां कालबोधनाय दश लकारा: सन्ति l लट्,लिट्,लुट्,लृट्,लेट्,लोट् ,लङ्,लिङ्,लुङ्, लृङ् च l तत्र लिङ् लकार:द्वि प्रकारौ - विधिर्लिन्ग्,आशीर्लिन्ग इति l लेट् लकार: वेदे एव उपयुज्यते l एते लकारा: द्वि प्रकारेण विभज्यते l कालवाची प्रकारवाची चेति l कालवाची शब्देन भूत भावि वर्तमानकाला: संसूच्यन्ते l प्रकारवाची तु आशिषि ,विधि निमन्त्रनार्थे प्रयुज्यते l कालवाची लकारा: लट्,लङ्,लुङ्,लिट्,लुट् ,लृट् चेति l वार्तमानकाले प्रयुज्यमान :लकार: भवति लट् l उदा :- स: पाठं पठति l लङ् लकार: अनद्यतनभूतकाले उपयुज्यते l उदा:- अहं पाठं अपठं l
लुङ् लकार: तु भूतकाले प्रयुज्यते l उदा:- प्रात: प्रार्थनां अभूत् l परोक्शभूतकालसूचक : लकार: भवति लिट् l उदा: -पुरा दशरथो नाम राजा बभूव l लुट् लकार: अनद्यतनभविष्यकाले प्रयुज्यते l उदा: - षोडशे दिनाङ्गे
संस्कृतोल्सवं भविता l भविष्यदर्थे लृट् उपयुज्यते l उदा:- श्व: अहं मन्दिरं गमिष्यामि l
लोट् ,विधिर्लिन्ग्,आशीर्लिन्ग ,लृङ् च प्रकारवाची लकारा:भवन्ति l आशिषी विधिनिमन्त्रनादि बोधनाय उपयुज्यमान: लकार :लोट् भवति l उदा :- स्वस्तिर्भवतु सर्वदा l विधिनिमन्त्रानार्थे विधिर्लिन्ग् उपयुज्यते l उदा: - छात्रा : सत्यनिष्टा: भवेयु: l आसीर्लिन् आशिषी उपयुज्यते l उदा :- अध्यापका: त्यागधना: भूयासू : l लृङ्लकार: हेतुहेतुमत्भावे ,भूते च भविष्यति l उदा: - आगामिनि वर्षे सूर्यतापेन भूमि:ऊषरा: अभविष्यत् l
सर्वमेतत् संगृह्य एवं वक्तुं शक्यते :-
"लट् वर्तमाने तु लेट् वेदे भूते लुङ्, लङ् लिडस्तथा l
विध्याशिशौ तु लिङ् लोदौ लुट् लृट् लृङ् च भविष्यति l
प्रिया . ए
सर्वोदया उचविद्यालय:,तृक्कूर.
लकारगीतं
वर्तमानकाले लट् 'भवति'
पूर्णभूतकाले लिट् बभूव
अनद्यतनभविष्यकाले लुट् 'भविता '
सामान्यभविष्यकाले लृट् 'भविष्यति '
आमन्त्रणार्थे लोट् 'भवतु'
अनद्यतनभूते लङ् 'अभवत्'
विधिनिमन्त्राणादौ लिङ् भवेत्
आशीर्वादादौ आशीर्लिङ् भूयात्
यदद्यतनभूतौ लुङ् अभूत्
हेत्वर्थे भूते भविष्यति च लृङ् 'अभविष्यत् ' l l अनद्यतनभविष्यकाले लुट् 'भविता '
सामान्यभविष्यकाले लृट् 'भविष्यति '
आमन्त्रणार्थे लोट् 'भवतु'
अनद्यतनभूते लङ् 'अभवत्'
विधिनिमन्त्राणादौ लिङ् भवेत्
आशीर्वादादौ आशीर्लिङ् भूयात्
यदद्यतनभूतौ लुङ् अभूत्
वि .गीताकुमारी
जी .यं .वि .एच .एस्.एस्
तृस्शूर
Monday, 9 January 2012
सुभाषितं - आशयानां महार्णवं
"प्रारभ्यते न खलु विघ्नभयेन नीजै:
प्रारभ्य विघ्नविहता विरमन्ति मध्या : l
विघ्नै :पुन : पुनरपि प्रतिहन्यमाना
प्रारब्धमुत्तमजना : न परित्यजन्ति l l "
सुभाषितानि जीवितस्य विजयाय अमूल्यानि मूल्यानि इत्यत्र नास्ति संदेह: l मनुजा : कथं विजयं प्राप्स्यन्ति ? इति, अथवा कथं विजयं प्राप्तव्यं इति अनेन सुभाषितेन स्पष्टीकरोति l अस्मिन सुभाषिते जनान् त्रिधा विभज्यते l प्रथमं तु नीचा: l ते विघ्नभयेन न किमपि प्रारभ्यते l द्वितीय :मध्या: पुरुषा: l ईदृशा : तु प्रारभ्य विघ्नेन प्रवर्तनात् विरमन्ति l किन्तु तृतीय: तु भूय: भूय: विघ्नान् अभिमुखीकृतन्नापि प्रारब्दं यं कमपि प्रवर्तनं न परित्यजन्ति ; परम् विजयं यावत् कठिनप्रवर्तनं करोति l अन्तिमविजयं च प्राप्नोति l
शिशुं पश्यतु ! पुन : पुन: पतन् स: चलितुं पठति l
पुन :पुन: रुदन स: हसति l एततेव प्रकृति नियम :l यत्नं लक्ष्यं साधयति l
अयं सुभाषितं पठन्त: पुरुषा: कथं लक्ष्यच्युतिं प्राप्नुयात् ?
अत: सुभाषितानि अवश्यं पठनीयानि l सुभाषितानि मूल्यबोधनाय उत्तमं औषधम् भवति l
( ट्रीसा,एस्.एच्.तृस्शूर)
Subscribe to:
Posts (Atom)