पठामि नित्यं कालिदासभासादि रचना:
वदामि नित्यं तेषां रचनावैभवं सगर्वं I
अन्यान् प्रेरयति पठितुं ,लेखितुं मुदा
हन्त ! शक्नोम्यहं न कमपि लेखनाय I I
भो! वागीश्वरी !नम:! नमस्तुभ्यं !
हारय ! संततं , मम विघ्नान् समूलं I
भो ! काली! महाकाली ! भगवती !
नाशय! भो ! मम रशनादोषानखिलं I I
नश्यतु मौनं ,जयतु तृष्णामविरलं
भजतु रे ! पुण्यचरितान निरन्तरं I
आरभतु , संस्कृतस्य पोषणाय
वदन् ,लिखन ,यद् किञ्चिदपि नूनं I I
ट्रीसा,एस्.एच्.तृस्शूर.
No comments:
Post a Comment